(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.315. अध्यायः 315
Mahabharata - Vana Parva - Chapter Topics
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-315-0x(2957)(28085)
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवः।
क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम् ॥ 3-315-1(28086)
युधिष्ठि उवाच। 3-315-2x(2958)
सरस्येकेन पादेन तिष्ठन्तमपराजितम्।
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥ 3-315-2(28087)
बसूनां वा भवानेको रुद्राणामथवा भवान्।
अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥ 3-315-3(28088)
मम हि भ्रातर इमे सहस्रशतयोधिनः।
तं योधं न प्रपश्यामि येन सर्वे निपातिताः ॥ 3-315-4(28089)
सुखं प्रति प्रबुद्दानामिन्द्रियाण्युपलक्षये।
स भवान्सुहृदोस्माकमथवा नः पिता भवान् ॥ 3-315-5(28090)
यक्ष उवाच। 3-315-6x(2959)
अहंते जनकस्तात धर्मो मृदुपराक्रम।
त्वां रदिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥ 3-315-6(28091)
यशः सत्यंदमः शौचमार्जवं ह्रीरचापलम्।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥ 3-315-7(28092)
अहिंसा समता शान्तिस्तपः शौचममत्सरः।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सुतो मम ॥ 3-315-8(28093)
दिष्ट्या पञ्चसु रक्तोसि दिष्ट्या ते षट्रपदी जिता।
द्वे पूर्वे मध्यमे द्वे च द्वे शान्ते सांपरायिके ॥ 3-315-9(28094)
ध्रमोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः।
आनृशंस्येन तुष्टोस्मि वरं दास्यामि तेऽनघ ॥ 3-315-10(28095)
वरं वृणीष्व राजेन्द्रदाता ह्यस्मि तवानघ।
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥ 3-315-11(28096)
युधिष्ठिर उवाच। 3-315-12x(2960)
अरणी तु हृतायस्य मृगेण वदतांवर।
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥ 3-315-12(28097)
धर्म उवाच। 3-315-13x(2961)
आरणेयमिदं तस्य ब्राह्मणस्य हृतं मया।
मृगवेषेण कौन्तेय जिज्ञालार्थं तवानघ ॥ 3-315-13(28098)
वैशम्पायन उवाच। 3-315-14x(2962)
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत।
अन्यं वरय भद्रं ते वरं त्वममरोपम ॥ 3-315-14(28099)
युधिष्ठिर उवाच। 3-315-15x(2963)
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम्।
तत्रनो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥ 3-315-15(28100)
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत।
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥ 3-315-16(28101)
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम्।
न वो विज्ञास्यते कश्चित्रिषु लोकेषु भारत ॥ 3-315-17(28102)
वर्षंत्रयोदशमिदं मत्प्रसादात्कुरूद्वहाः।
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥ 3-315-18(28103)
यद्वः संकल्पितं रूपं मनसा यस् यादृशम्।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥ 3-315-19(28104)
अरणीसहितं भाण्डं ब्राह्मणाय प्रयच्छत।
जिज्ञासार्थं मया ह्येतदाहृतंमृगरूपिणा ॥ 3-315-20(28105)
प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते।
न तृप्यामि नरश्रेष्ठ प्रयच्छन्वै वरांस्तथा ॥ 3-315-21(28106)
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत्।
त्वं हि मत्प्रभवो राजन्विदुरश्चममांशजः ॥ 3-315-22(28107)
जुधिष्ठिर उवाच। 3-315-23x(2964)
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥ 3-315-23(28108)
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो।
दाने तपसि सत्ये च मनो मे सततं वेत् ॥ 3-315-24(28109)
धर्म उवाच। 3-315-25x(2965)
रउपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव।
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥ 3-315-25(28110)
वैशंवायन उवाच। 3-315-26x(2966)
इत्युक्त्वान्तऽर्दधे धर्मो भगबाँल्लोकभावनः।
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥ 3-315-26(28111)
उपेत्यचाश्रमं वीराः सर्व एव गतक्लमाः।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥ 3-315-27(28112)
इदं समुत्थानसमागतं मह-
त्पितुश्चपुत्रस्य च कीर्तिवर्धनम्।
पठन्नरः रस्याद्विजितेन्द्रियो वशी
सपुत्रपौत्रः शतपर्षभाग्भवेत् ॥ 3-315-28(28113)
न चाप्यधर्मे न सुहृद्विभेदने
परस्वहारे परदारमर्शने।
कदर्यभावे न रमेनेमनः सदा
नृणां सदाख्यानमिदं विजानताम् ॥ 3-315-29(28114)

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां अरण्यपर्वणि आरणेयपर्वणि पञ्चदशाधिकत्रिशततमोऽध्यायः ॥ 315 ॥

आरणेयपर्व समाप्तम् ॥ 21 ॥ समाप्तमिदमरण्यपर्व च ॥ 3 ॥ अतः परं विराटपर्व भविष्यति। तस्यायमाद्यः श्लोकः। जनमेयज उवाच। कथं विराटनगरे मम पूर्वपितामहाः। अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-315-5 सुहृदः सुहृत्। छान्दसमदन्तत्वम् ॥ 3-315-9 पञ्चस्वात्मदर्शनसाधनेषु शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वेति श्रुत्युक्तेषु शमादिषु। दिष्ठ्या पूर्वपुण्यवशाद्रक्तोसि तस्य फलं च षट्पदीजयः। पद्यन्ते प्राप्नुवन्ति देहिनमिति पदानि षडूर्मयो योशनायापिपासे शोकं मोहं जरां मृत्युमत्येतीति श्रुत्युक्तः। तेषां षण्णां पदानां समाहारः षट्पदी सा त्वया जिता। तेषु पदेषु द्वे पदे पूर्वे जातमात्रस्य ह्यशनायापिपासे प्रथमं भवतः। द्वे मध्ये शोकमोहौ। शोक इष्टवियोगजश्चित्तस्य संतापः। मोहोऽतिपापेन कार्याकार्यप्रतिसंधानशून्यत्वम्। एते मध्ये मध्यमे वयसि प्राप्नुतः। सांपरायिके जरामृत्यू उत्तरे वयस्युपतिष्ठतः। संपरायः परलोकस्तं प्रति नेतुमुदिते सांपरायिके ॥ 3-315-15 अरण्ये गतानीति शेषः। नोऽस्मान् ॥ 3-315-19 छन्दत उच्छातः ॥ 3-315-27 आरणेयमरणीसंपुटम् ॥ 3-315-28 समुत्थानसमागतं भीमादीनां समुत्थानं च रधर्मराजेन सह समागतं संमेलनं चेति समाहारः। पितुर्धर्मस्य। पुत्रस् युधिष्ठिरस्य। चात् समागतमिति समासैकदेशभूतमप्यनुवर्तते ॥ 3-315-29 कदर्यभावे कार्पण्ये। सदाख्यानं सुभाख्यानम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.